fcd
Subhashitmala 2
Subhashitmala 2
ghj
xvnc
सुभाशितमाला - २
अहो महत्तं महतामपुर्वं विपत्तिकालेऽपि परोपकारः ।
यथाऽऽस्यमध्ये पतितोऽपि राहोः कलानिधिः पुन्यचयं ददाति ।।१।। (उपेन्द्रवज्रा)
यथा छायातपौ नित्यं सुसम्बध्दौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ।।२।।
समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ।।३।। (गीती)
मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः
पात्रं यत् सूखदुःखयोः सह भवेन्मित्रेण तददुर्लभम् ।
ये चान्ये सुह्रदः समृद्धिसमये द्रव्याभिलाशाकुला-
स्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ।।४।।
गृह्णन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः क्वापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ।।५।। (इन्द्रवज्रा)
धर्मः सर्वसुखाकरो हितकरो धर्मं बुधाश्चिन्वते
धर्मेणैव समाप्यते शिवसुखं धर्माय तस्मै नमः ।
धर्मान्नस्त्यपरः सुह्यद् भवभृतां धर्मस्य मुलं दया
धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म मां पालय ।।६।।
अङगेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यम्।
धर्मेण हीनं खलु जीवितश्च न राजते चन्द्रमसा विना निशा ।।७।।
DOWNLOAD as doc.
Hi Friends
Hi everyone I am new in blogger and now teaching about own blog.
Subscribe to:
Posts (Atom)
